(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.178. अध्यायः 178
Mahabharata - Vana Parva - Chapter Topics
अर्जुनसमागमानन्तरं युधिष्ठिरेण गन्धमादनादवतरणाध्यवसायः ॥ 1 ॥ लोमशेन पाण्डवान्प्रति जयाशीर्वचनपूर्वकं स्वर्गंप्रति गमनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text

जनमेजय उवाच। 3-178-0x(2330)(22774)
तस्मिन्कृतास्त्रे रथिनां प्रवीरे।
प्रत्यागते भवनाद्वृत्रहन्तुः।
अतः परं किमकुर्वन्त पार्थाः
समेत्य शूरेण धनंजयेन ॥ 3-178-1(22775)
वैशम्पायन उवाच। 3-178-2x(2331)
वनेषु तेष्वेव तु ते नरेन्द्राः
सहार्जुनेनेन्द्रसमेन वीराः।
तस्मिंश्च शैलप्रवरे सुरम्ये
धनेश्वराक्रीडगता विजह्रुः ॥ 3-178-2(22776)
वेश्मानि तान्यप्रतिमानि पश्यन्
क्रीडाश्च नानाद्रुमसन्निबद्धाः।
चचार धन्वी बहुधा नरेन्द्रः
सोऽस्त्रेषु यत्तः सततं किरीटी ॥ 3-178-3(22777)
अवाप्य वासं नरदेवपुत्राः
प्रसादजं वैश्रवणस्य राज्ञः।
न प्राणिनां ते स्पृहयन्ति राज-
ञ्शिवश् कालः स बभूव तेषाम् ॥ 3-178-4(22778)
समेत्य पार्थेन यथैकरात्र-
मूषुः समास्तत्रतथा चतस्रः।
पूर्वाश्च षट् ता दश पाण्डवानां
शिवा बभूवुर्वसतां वनेषु ॥ 3-178-5(22779)
ततोऽब्रवीद्वायुसुतस्तरस्वी
जिष्णुश्च राजानमुपोपविश्य।
यमौ च वीरौ सुरराजकल्पा-
वेकान्तमास्थाय हितं प्रियं च ॥ 3-178-6(22780)
तव प्रतिज्ञां कुरुराज सत्यां
चिकीर्षमाणास्त्वदनुप्रियं च।
ततो न गच्छाम वनान्यपास्य
सुयोधनं सानुचरं निहन्तुम् ॥ 3-178-7(22781)
एकादशं वर्षमिदं वसामः
सुयोधनेनात्तसुखाः सुखार्हाः।
तं वञ्चयित्वाऽधमबुद्धिशील-
मज्ञातवासं सुखमाप्नुयाम ॥ 3-178-8(22782)
तवाज्ञया पार्थिव निर्विशङ्का
विहाय मानं विचरामो वनानि।
समीपवासेन विलोभितास्ते
ज्ञास्यन्ति नास्मानपकृष्टदेशान् ॥ 3-178-9(22783)
संवत्सरं तत्र विहृत्य गूढं
नराधमं तं सुखमुद्धरेम।
निर्यात्य वैरं सफलं सपुष्पं
तस्मै नरेन्द्राधमपूरुषाय ॥ 3-178-10(22784)
सुयोधनायानुचरैर्वृताय
ततो महीं प्राप्नुहि धर्मराज।
स्वर्गोपमं देशमिमं चरद्भिः
शक्यो विहन्तुं नरदेव शोकः ॥ 3-178-11(22785)
कीर्तिस्तु ते भारत पुण्यगन्धा
नश्येद्धि लोकेषु चराचरेषु।
तत्प्राप्य राज्यंकुरुपुङ्गवानां
शक्यं महत्प्राप्तुमथ क्रियाश्च ॥ 3-178-12(22786)
इदं तु शक्यं सततं नरेन्द्र
प्राप्तुं त्वया यल्लभसे कुबेरात्।
कुरुष्व बुद्धिं द्विषतां वधाय
कृतागसां भारत निग्रहे च ॥ 3-178-13(22787)
तेजस्तवोग्रं न सहेत राजन्
समेत्य साक्षादपि वज्रपाणिः।
न हि व्यथां जातु करिष्यतस्तौ
समेत्य देवैरपि धर्मराज ॥ 3-178-14(22788)
तवार्थसिद्ध्यर्थमपि प्रवृत्तौ
सुपर्णकेतुश्च शिनेश्च नप्ता।
यथैव कृष्णोऽप्रतिमो बलेन
तथैव राजन्स शिनिप्रवीरः ॥ 3-178-15(22789)
तवार्थसिद्ध्यर्थमभिप्रपन्नो
यथैव कृष्णः सह यादवैस्तैः।
तथैव चेमौ नरदेववर्य
यमौ च वीरौ कृतिनौ प्रयोगे ॥ 3-178-16(22790)
त्वदर्थयोगप्रभवप्रधानाः
शमं करिष्याम परान्समेत्य ॥ 3-178-17(22791)
वैशम्पायन उवाच 3-178-18x(2332)
ततस्तदाज्ञाय मतं महात्मा
तेषां च धर्मस्य सुतो वरिष्ठः।
प्रदक्षिणं स्थानमुपेत्य राजा
पर्याक्रमद्वैश्रवणस्य राज्ञः ॥ 3-178-18(22792)
आमन्त्र्य वेश्मानि नदीः सरांसि
सर्वाणि रक्षांसि च धर्मराजः।
यथागतं मार्गमवेक्षमाणः
पुनर्गिरिं चैव निरीक्षमाणः।
[ततो महात्मा स विशुद्धबुद्धिः
संप्रार्थयामास नगेन्द्रवर्यम् ॥] 3-178-19(22793)
समाप्तकर्मा सहितः सुहृद्भि-
र्जित्वा सपत्नान्प्रतिलभ्य राज्यम्।
शैलेन्द्र भूयस्तपसे जितात्मा
द्रष्टा तवास्मीति मतिं चकार ॥ 3-178-20(22794)
वृतश्च सर्वैरनुजैर्द्विजैश्च
तेनैव मार्गेण पुनर्निवृत्तः।
उवाह चैनान्गणशस्तथैव
घटोत्कचः पर्वतनिर्झरेषु ॥ 3-178-21(22795)
तान्प्रस्थितान्प्रीतमना महर्षिः
पितेव पुत्राननुशिष्य सर्वान्।
स लोमशो दिवमेवोर्जितश्री-
र्जगाम तेषां विजयं तदोक्त्वा ॥ 3-178-22(22796)
तेनार्ष्टिषेणेन तथानुशिष्टा-
स्तीर्तानि रम्याणि तपोवनानि।
महान्ति चान्यानि सरांसि पार्थाः
कसंपश्यमानाः प्रययुर्नराग्र्याः ॥ 3-178-23(22797)

इति श्रीमन्महाभारते अरण्यपर्वणि आजगरपर्वणि अष्टसप्तत्यधिकशततमोऽध्यायः ॥ 178 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-178-1 वृत्रहन्तुरिन्द्रस्य ॥ 3-178-2 आक्रीडं उद्यानम् ॥ 3-178-4 वासं स्थानम्। प्राणिनां भूमिस्तानामैश्वर्यमिति शेषः ॥ 3-178-5 पूर्वाश् षट् समाः ॥ 3-178-9 अपकृष्टदेशान् दूरस्थान् न ज्ञास्यन्ति अपितु समीपस्थानेव ॥ 3-178-10 निर्यात्य प्रत्यर्प्य। अपकारिणेऽपकारं कृत्वेत्यर्थः। फलं राज्यप्राप्तिः। पुष्पं शत्रुवधः ॥ 3-178-13 निग्रहे च बन्धने वा। भ्रातृत्वाद्वधेऽप्रवृत्तिश्चेदिति भावः ॥ 3-178-14 समेत्य युद्धं प्राप्य ॥ 3-178-15 सुपर्णकेतुः कृष्णः। शिनेर्नप्ता सात्यकिः। एतयोर्वीर्यं हितकारित्वं चाह। तथैवेति। तथैव कृष्णोऽप्रतिमो बलेन तथैव चाहं नरदेव वर्य। इति झ. पाठः। तत्र कृष्णोऽर्जुनः। अहं भीमसेन इत्यर्थः ॥ 3-178-16 प्रयोगेऽस्त्रप्रयोगे कृतिनौ कुशलौ ॥ 3-178-17 त्वदर्थयोगप्रभवप्रधानाः तव अर्थयोगो धनलाभः प्रभव ऐश्वर्योत्कर्षस्तद्द्वयं प्रधानं तेषां ते तथा ॥ 3-178-20 इति प्रार्थयामासेति पूर्वेण संबन्धः। मतिं चकार। गमने इति शेषः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.